|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.46. अध्यायः 046
Mahabharata - Karna Parva - Chapter Topics
भीमकर्णयोर्युद्धम्॥ 1 ॥ भीमेन दुर्योधनानुजानां कतिपयानां हननम्॥ 2 ॥ सङ्कुलयुद्धं च॥ 3 ॥

Mahabharata - Karna Parva - Chapter Text
धृतराष्ट्र उवाच। 8-46-0x(4963)(57213)
सुदुष्करमिदं कर्म कृतं भीमेन सञ्जय।
येन कर्णो महाबाहू रथोपस्थे निपातितः॥ 8-46-1(57214)
कर्णो ह्येको रणे हन्ता पाण्डवान्सृञ्जयैः सह।
इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः॥ 8-46-2(57215)
पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे।
ततः परं किमकरोत्पुत्रो दुर्योधनो मम॥ 8-46-3(57216)
सञ्जय उवाच। 8-46-4x(4964)
विमुखं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे।
पुत्रस्तव महाराज सोदर्यानिदमब्रवीत्॥ 8-46-4(57217)
शीघ्रं गच्छत भद्रं वो राधेयं परिरक्षत।
भीमसेनभयेऽगाधे म़ज्जन्तं व्यसनार्णवे॥ 8-46-5(57218)
ते तु राज्ञा समादिष्टा भीमसेनं जिघांसवः।
अभ्यवर्तन्त सङ्क्रुद्धाः पतङ्गाः पावकं यथा॥ 8-46-6(57219)
श्रुतायुर्दुर्धरः क्राथो विवित्सुर्विकटः समः।
निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ॥ 8-46-7(57220)
दुष्प्रधर्षः सुबाहुश्च वातवेगसुवर्चसौ।
धनुर्ग्राहो दुर्मदश्च जलसन्धः शलः सहः॥ 8-46-8(57221)
एते रथैः परिवृता वीर्यवन्तो महाबलाः।
भीमसेनं समासाद्य समन्तात्पर्यवारयन्॥ 8-46-9(57222)
ते व्यमुञ्चञ्छरव्रातान्नानालिङ्गान्समन्ततः।
स तैरभ्यर्द्यमानस्तु भीमसेनो महाबलः॥ 8-46-10(57223)
तेषामापततां क्षिप्रं सुतानां ते जनाधिप।
रथैः पञ्चशतैः सार्धं पञ्चाशदहनद्रथान्॥ 8-46-11(57224)
विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः।
भीमसेनो महाराज तत्पपात हतं भुवि॥ 8-46-12(57225)
सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तथा।
`अशोभत महाराज पूर्णचन्द्र इवाम्बरे'॥ 8-46-13(57226)
तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतस्तदा।
अभ्यद्रवन्त समरे भीमं भीमपराक्रमम्॥ 8-46-14(57227)
ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे।
जहार समरे प्राणान्भीमो भीमपराक्रमः॥ 8-46-15(57228)
तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ।
विकटश्च सहश्चोमौ देवपुत्रोपमौ नृप॥ 8-46-16(57229)
ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम्।
नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि॥ 8-46-17(57230)
हाहाकारस्ततस्तीव्रः सम्बभूव जनेश्वर।
वध्यमानेषु वीरेषु तव पुत्रेषु धन्विषु॥ 8-46-18(57231)
तेषां सुलुलिते सैन्ये पुनर्भीमो महाबलः।
नन्दोपनन्दौ समरे प्रैषयद्यमसादनम्॥ 8-46-19(57232)
ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः।
भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम्॥ 8-46-20(57233)
पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रः सुदुर्मनाः।
हंसवर्णान्हयान्भूयः प्रैषयद्यत्र पाण्डवः॥ 8-46-21(57234)
ते प्रेषिता महाराज मद्रराजेन वाजिनः।
भीमसेनरथं प्राप्य समसज्जन्त वेगिताः॥ 8-46-22(57235)
स सन्निपातस्तुमुलो घोररूपो विशाम्पते।
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे॥ 8-46-23(57236)
दृष्ट्वा मम महाराज तौ समेतौ महारथौ।
आसीद्बुद्विः कथं युद्वमेतदद्य भविष्यति॥ 8-46-24(57237)
ततो भीमो रणश्लाघी छादयामास पत्रिभिः।
कर्णं रणे महाराज पुत्राणां तव पश्यताम्॥ 8-46-25(57238)
ततः कर्णो भृशं क्रुद्धो भीमं नवभिरायसैः।
विव्याध परमास्त्रज्ञो भल्लैः सन्नतपर्वभिः॥ 8-46-26(57239)
तान्निहत्य महाबाहुर्भीमो भीमपराक्रमः।
आकर्णपूर्णैर्विशिखैः कर्णं विव्याध सप्तभिः॥ 8-46-27(57240)
ततः कर्णो महाराज आशीविष इव श्वसन्।
शरवर्षेण महता छादयामास पाण्डवम्॥ 8-46-28(57241)
भीमोऽपि ततं शरव्रातैश्छादयित्वा महारथम्।
पश्यतां कौरवेयाणां विननर्द महाबलः॥ 8-46-29(57242)
ततः कर्णो भृशं क्रुद्धो दृढमादाय कार्मुकम्।
भीमं विव्याध दशभिः कङ्कपत्रैः शिलाशितैः।
कार्मुकं चास्य चिच्छेद भल्लेन निशितेन च॥ 8-46-30(57243)
ततो भीमो महाबाहुर्हेमपट्टविभूषितम्।
परिघं घोरमादाय मृतत्युदण्डमिवापरम्।
कर्णस्य निधनाकाङ्क्षी चिक्षेपातिबलो नदन्॥ 8-46-31(57244)
तमापतन्तं परिघं वज्राशनिसमस्वनम्।
चिच्छेद बहुधा कर्णः शरैराशीविषोपमैः॥ 8-46-32(57245)
ततः कार्मुकमादाय भीमो दृढतरं तदा।
छादयामास विशिखैः कर्णं परबलार्दनम्॥ 8-46-33(57246)
ततो युद्धमभूद्धोरं कर्णपाण्डवयोर्मृधे।
बलीन्द्रयोरिव मुहुः परस्परवधैषिणोः॥ 8-46-34(57247)
ततः कर्णो महाराज भीमसेनं त्रिभिः शरैः।
आकर्णपूर्णैर्विव्याध दृढमानम्य कार्मुकम्॥ 8-46-35(57248)
सोऽतिविद्धो महेष्वासः कर्णेन बलिनां वरः।
घोरमादत्त विशिखं कर्णकायावदारणम्॥ 8-46-36(57249)
तस्य भित्त्वा तनुत्राणं भित्त्वा कायं च सायकः।
प्राविशद्वरणीं राजन्वल्मीकमिव पन्नगः॥ 8-46-37(57250)
स तेनातिप्रहारेण व्यथितो विह्वलन्निव॥
सञ्चचाल रथे कर्णः क्षितिकम्पे यथाऽचलः॥ 8-46-38(57251)
ततः कर्णो महाराज रोषामर्षसमन्वितः।
भीमं तं पञ्चविंशत्या नाराचानां समार्पयत्॥ 8-46-39(57252)
चिच्छेद कार्मुकं तूर्णं पाण्डवस्याशु पत्रिणा॥ 8-46-40(57253)
तततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्वसन्निव।
विरथं भीमकर्माणं भीमं कर्णश्चकार ह॥ 8-46-41(57254)
विरथो भरतश्रेष्ठ प्रहसन्ननिलोपमः।
गदां गृह्य महाबाहुरपतत्स्यन्दनोत्तमात्॥ 8-46-42(57255)
गदया च महाराज कर्णस्य रथकूबरम्।
पोथयामास सङ्क्रुद्धः समरे शत्रुतापनः॥ 8-46-43(57256)
स क्रोधवशमापन्नः पाण्डुपुत्रः प्रतापवान्।
विद्राव्य गदया वीरस्तव पुत्रान्महाहवे॥ 8-46-44(57257)
नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः।
व्यधमत्सहसा भीमः क्रुद्धरूपः परन्तपः॥ 8-46-45(57258)
दन्तवेष्टेषु नेत्रेषु कुम्भेषु च कटेषु च।
मर्मस्वपि च मर्मज्ञस्तान्नागानवधीद्बली॥ 8-46-46(57259)
`अर्दिता भीमसेनेन विनदन्तो भृशातुराः'।
ततस्ते प्राद्रवन्भीताः प्रहताश्च पुनःपुनः।
महामात्रास्तमावव्रुर्मेघा इव दिवाकरम्॥ 8-46-47(57260)
तान्स सप्तशतान्नागान्सारोहायुधकेतनान्।
भूमिष्ठो गदया जघ्ने वज्रेणेन्द्र इवाचलान्॥ 8-46-48(57261)
ततः सुबलपुत्रस्य नागानतिबलान्पुनः।
पोथयामास कौन्तेयो द्विपञ्चाशदरिन्दमः॥ 8-46-49(57262)
तथा रथशततं साग्रं पत्तींश्च शतशोऽपरान्।
न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम्॥ 8-46-50(57263)
प्रताप्यमानं सूर्येण भीमेन च महात्मना।
तव सैन्यं सञ्चुकोच चर्माग्नावाहितं यथा॥ 8-46-51(57264)
ते भीमभयसन्त्रस्तास्तावका भरतर्षभ।
विहाय समरे कर्णं दुद्रुवुर्वै दिशो दश॥ 8-46-52(57265)
रथाः पञ्चशताश्चान्ये हादिनः शरवर्षिणः।
भीममभ्यद्रवन्घ्नन्तः शरपूगैः समन्ततः॥ 8-46-53(57266)
तान्स पञ्चशतान्वीरान्सपताकध्वजायुधान्।
पोथयामास गदया भीमो विष्णुरिवासुरान्॥ 8-46-54(57267)
ततः शकुनिनिर्दिष्टाः सादिनः शूरसम्मताः।
त्रिसाहस्राण्यभिययुः शरशक्त्यृष्टिपाणयः॥ 8-46-55(57268)
तान्प्रत्युद्गम्य यवनान्साश्वारोहांस्तदाऽरिहा।
विविधान्विचरन्मार्गान्गदया समपोथयत्॥ 8-46-56(57269)
तेषामासीन्महाञ्छब्दस्ताडितानां च सर्वशः।
अग्निभिर्दह्यमानानां नलानामिव भारत॥ 8-46-57(57270)
एवं सुबलपुत्रस्य त्रिसाहस्रान्हयोत्तमान्।
हत्वाऽन्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात्॥ 8-46-58(57271)
कर्णोऽपि समरे राजन्धर्मपुत्रमरिन्दमम्।
स शरैश्छादयामास सारथिं चाप्यपातयत्॥ 8-46-59(57272)
ततः स प्रद्रुतं सैन्यं दृष्ट्वा कर्णो महारथः।
अन्वधावत्किरन्बाणैः कङ्कपत्रैरजिह्मगैः॥ 8-46-60(57273)
राजानमभिधावन्तं शरैरावृत्य रोदसी।
क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः॥ 8-46-61(57274)
सन्निवृत्तस्ततस्तूर्णं राधेयः शत्रुकर्शनः।
भीमं प्रच्छादयामास समन्तान्निशितैः शरैः॥ 8-46-62(57275)
भीमसेनरथप्रेप्सुं कर्णं भारत सात्यकिः।
अभ्यर्दयदमेयात्मा पार्ष्णिग्रहणकारणात्॥ 8-46-63(57276)
भीमसेनरथप्रेप्सुं कर्णो भारत सात्यकिम्।
अभ्यवर्तत शैनेयमर्दयञ्छरवृष्टिभिः॥ 8-46-64(57277)
तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम्।
विसृजन्तौ शरान्दीप्तान्विभ्राजेतां मनस्विनौ॥ 8-46-65(57278)
ताभ्यां वियति राजेन्द्र विततततं भीमदर्शनम्।
कौञ्चपृष्ठारुणं रौद्रं बाणजालं व्यदृश्यत॥ 8-46-66(57279)
नैव सूर्यप्रभा राजन्न दिशः प्रदिशस्तथा।
प्राज्ञासिष्म वयं ते वा शरैर्मुक्तैः सहस्रशः॥ 8-46-67(57280)
मध्याह्ने तपतो राजन्भास्करस्य महाप्रभाः।
हृताः सर्वाः शरौघैस्तैः कर्णमाधवयोस्तदा॥ 8-46-68(57281)
सौबलं कृतवर्माणं द्रौणिमाधिरथिं कृपम्।
संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः॥ 8-46-69(57282)
तेषामापततां शब्दस्तीत्र आसीद्विशाम्पते।
उद्वृत्तानां यथा वृष्ट्या सागराणां भयावहः॥ 8-46-70(57283)
ते सेने भृशसंसक्ते दृष्ट्वाऽन्योन्यं महाहवे।
हर्षेण महता युक्ते परिगृह्य परस्परम्॥ 8-46-71(57284)
ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे।
यादृशं नैवमस्माभिर्दृष्टपूर्वं न च श्रुतम्॥ 8-46-72(57285)
बलौघस्तु समासाद्य बलौघं सहसा रणे।
उपसर्पत वेगेन वार्योघ इव सागरम्॥ 8-46-73(57286)
आसीन्निनादः सुमहान्बाणौघानां परस्परम्।
गर्जतां सागरौघाणां यथा स्यान्निःस्वनो महान्॥ 8-46-74(57287)
ते तु सेने समासाद्य वेगवत्यौ परस्परम्।
एकीभावमनुप्राप्ते नद्याविव समागमे॥ 8-46-75(57288)
ततः प्रववृते युद्धं घोररूपं विशाम्पते।
कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः॥ 8-46-76(57289)
शूराणां गर्जतां तत्र ह्यविच्छेदकृता गिरः।
श्रुयन्ते विविधा राजन्नामान्युद्दिश्य भारत॥ 8-46-77(57290)
यस्य यद्धि रणे व्यङ्गं पितृतो मातृतोऽपि वा।
कर्मतः शीलतो वाऽपि स तच्छ्रावयते युधि॥ 8-46-78(57291)
तान्दृष्ट्वा समरे शूशांस्तर्जमानान्परस्परम्।
अभवन्मे मती राजन्नैषामस्तीति जीवितम्॥ 8-46-79(57292)
तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्यमिततेजसाम्।
अभवन्मे भयं तीव्रं कथमेतद्भविष्यति॥ 8-46-80(57293)
ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः।
ततक्षुः सायकैस्तूर्णमन्योन्यं विजयैषिणः॥ ॥ 8-46-81(57294)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षट्चत्वारिंशोऽध्यायः॥ 46 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|